|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.129. अध्यायः 129
Mahabharata - Adi Parva - Chapter Topics
धर्मात्कुन्त्यां युधिष्ठिरोत्पत्तिः॥ 1 ॥
कुन्त्याः पुत्रोत्पत्तिश्रवणेन दुःखितया गान्धार्यां घातितात्स्वोदरान्मांसपेशीजननम्॥ 2 ॥
मांसपेशीं एकोत्तरशतधा विभज्य पृथक्पृथक्कुण्डेषु निधाय रक्षणम्॥ 3 ॥
वने स्थितस्य पाण्डोः कुन्त्यां वायोर्भीमसेन्नोत्पत्तिः॥ 4 ॥
मातुरङ्कात्पतितेन भीमेन शैलशिलासंचूर्णनम्॥ 5 ॥
दुर्योधनोत्पत्तिः॥ 6 ॥
ततो मासेन धृतराष्ट्रस्य पुत्रशतोत्पत्तिः। दुःशलाजननं च॥ 7 ॥
Mahabharata - Adi Parva - Chapter Text
1-129-0(5678)
`कुन्त्युवाच। 1-129-0x(765)
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति।
विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम्॥ 1-129-1(5679)
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः।
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च॥ 1-129-2(5680)
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज।
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत्॥ 1-129-3(5681)
आवाहयामि कं देवं कदा वा भरतर्षभ।
त्वत्त आज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते॥ 1-129-4(5682)
पाण्डुरुवाच। 1-129-5x(766)
धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि।
नमो महर्षये तस्मै येन दत्तो वरस्तव॥ 1-129-5(5683)
न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः।
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च॥ 1-129-6(5684)
प्रवरं सर्वदेवानां धर्ममावाहयाबले। 1-129-7(5685)
वैशम्पायन उवाच।
पाण्डुना समनुज्ञाता भारतेन यशस्विना।
मतिं चक्रे महाराज धर्मस्यावाहने तदा॥' 1-129-7x(767)
पाण्डुरुवाच। 1-129-8x(768)
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि।
धार्मिकश्च कुरूणां हि भविष्यति न संशयः॥ 1-129-8(5686)
दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः।
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम्॥ 1-129-9(5687)
अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम्।
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते॥ 1-129-10(5688)
आकाराचारसंपन्ना भजस्वाराधय स्वयम्॥ 1-129-11(5689)
वैशम्पायन उवाच। 1-129-12x(769)
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत्॥ 1-129-12(5690)
संवत्सरोषिते गर्भे गान्धार्या जनमेजय।
आजुबहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम्॥ 1-129-13(5691)
सा बलिं त्वरिता देवी धर्मायोपजहार ह।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा॥ 1-129-14(5692)
`जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत्।
आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः॥' 1-129-15(5693)
आजगाम ततो देवीं धर्मो मन्त्रबलात्ततः।
विमाने सूर्यसङ्काशे कुन्ती यत्र जपस्थिता॥ 1-129-16(5694)
`ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे।'
विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम्।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम्॥ 1-129-17(5695)
`तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत्॥ 1-129-18(5696)
ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी।
शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता॥' 1-129-19(5697)
धर्मेण सह संगम्य योगमूर्तिधरेण सा।
लेभे पुत्रं महाबाहुं सर्वप्राणभृतां वरम्॥ 1-129-20(5698)
ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे।
दिवा मध्यगते सूर्ये तिथौ पूर्णे हि पूजिते॥ 1-129-21(5699)
समृद्धयसशं कुन्ती सुषाव प्रवरं सुतम्।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी॥ 1-129-22(5700)
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति॥ 1-129-23(5701)
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः।
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः।
यशसा तेजसा चैव वृत्तेन च समन्वितः॥ 1-129-24(5702)
संवत्सरे द्वितीये तु गान्धार्या उदरं महत्।
न च प्राजायत तदा ततस्तां दुःखमाविशत्॥ 1-129-25(5703)
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्।
उदस्यात्मनः स्थैर्यमुपालभ्य च सौबली॥ 1-129-26(5704)
कौरवस्यापरिज्ञातं यत्नेन महता स्वयम्।
उदरं घातयामास गान्धारी शोकमूर्छिता॥ 1-129-27(5705)
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता।
द्विवर्षसंभृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे॥ 1-129-28(5706)
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्।
तां स मांसमयीं पेशीं ददर्श जपतां वरः॥ 1-129-29(5707)
ततोऽवदत्सौबलेयीं किमिदं ते चिकीर्षितम्।
सा चात्मनो मतं सर्वं शशंस परमर्षये॥ 1-129-30(5708)
गान्धार्युवाच। 1-129-31x(770)
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्।
दुःखेन परमेणेदमुदरं घातितं मया॥ 1-129-31(5709)
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा।
इयं च मे मांसपेशी जाता पुत्रशताय वै॥ 1-129-32(5710)
व्यास उवाच। 1-129-33x(771)
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत्।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा॥ 1-129-33(5711)
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्।
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम्॥ 1-129-34(5712)
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय॥ 1-129-35(5713)
वैशम्पायन उवाच। 1-129-36x(772)
सा सिच्यमाना ह्यष्ठीला ह्यभवच्छतधा तदा।
अङ्गुष्ठपर्वभात्राणां गर्भाणां तत्क्षणं तथा॥ 1-129-36(5714)
एकाधिकशतं पूर्णं यथायोगं विशांपते।
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः॥ 1-129-37(5715)
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात्।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधत्॥ 1-129-38(5716)
स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत्।
शशास चैव कृष्णो वै गर्भाणां रक्षणं तथा॥ 1-129-39(5717)
उवाच चैनां भगवान्कालेनैतावता पुनः।
स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने॥ 1-129-40(5718)
उद्धाटनीयान्येतानि कुण्डानीति च सौबलीम्।
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च॥ 1-129-41(5719)
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम्।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः॥ 1-129-42(5720)
तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत्॥ 1-129-43(5721)
धार्मिकं च सुतं दृष्ट्वा पाण्डुः कुन्तीमथाऽब्रवीत्।
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु॥ 1-129-44(5722)
ततः कुन्तीमभिक्रम्य शशासातीव भारत।
वायुमावाहयस्वेति स देवो बलवत्तरः॥ 1-129-45(5723)
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः॥ 1-129-46(5724)
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम्।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि॥ 1-129-47(5725)
स नो यं दास्यति सुतं स प्राणबलवान्नृषु।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः॥ 1-129-48(5726)
वैशम्पायन उवाच। 1-129-49x(773)
तथोक्तवति सा काले वायुमेवाजुहाव ह।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः॥ 1-129-49(5727)
तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत्।
आजगाम ततो वायुः किं करोमीति चाब्रवीत्॥ 1-129-50(5728)
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम्।
तथास्त्विति च तां वायुः समालभ्य दिवं गतः॥ 1-129-51(5729)
तस्यां जज्ञे महावीर्यो भीमो भीमपराक्रमः।
तमप्यतिबलं जातं वागुवाचाशरीरिणी॥ 1-129-52(5730)
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत।
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः॥ 1-129-53(5731)
मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे।
वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः॥ 1-129-54(5732)
यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः।
तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः॥ 1-129-55(5733)
इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे।
यदऱ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत्॥ 1-129-56(5734)
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः।
स्नात्वा च सुतमादाय दशमेऽहनि यादवी॥ 1-129-57(5735)
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा।
शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम॥ 1-129-58(5736)
निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात्।
तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम्॥ 1-129-59(5737)
निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः।
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम्॥ 1-129-60(5738)
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा।
त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ॥ 1-129-61(5739)
पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः।
स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः॥ 1-129-62(5740)
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम्।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता॥ 1-129-63(5741)
शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत्।
स तु जन्मनि भीमस्य विनदन्तं विनादितम्॥ 1-129-64(5742)
ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः।
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च॥ 1-129-65(5743)
सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः।
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ॥ 1-129-66(5744)
दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे।
पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम्॥ 1-129-67(5745)
यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः।
तामेव रात्रिं पूर्वां तु जज्ञे दुर्योधनो नृपः॥ 1-129-68(5746)
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप।
रासभारावसदृशं रुराव च ननाद च॥ 1-129-69(5747)
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः॥ 1-129-70(5748)
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम्॥ 1-129-71(5749)
समानीय बहून्विप्रान्भीष्मं विदुरमेव च।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च॥ 1-129-72(5750)
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्तिनः॥ 1-129-73(5751)
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम्॥ 1-129-74(5752)
`अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत्।
अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत्॥' 1-129-75(5753)
वाक्यस्यैतस्य निधेन दिक्षु सर्वासु भारत।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः॥ 1-129-76(5754)
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः॥ 1-129-77(5755)
यथेमानि निमित्तानि घोराणि मनुजाधिप।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ॥ 1-129-78(5756)
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान्॥ 1-129-79(5757)
`एष दुर्योधनो राजा मधुपिङ्गललोचनः।
न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति॥' 1-129-80(5758)
शतमेकोनमप्यस्तु पुत्राणां ते महीपते।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत॥ 1-129-81(5759)
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्॥ 1-129-82(5760)
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः॥ 1-129-83(5761)
न चकार तथा राजा पुत्रस्नेहसमन्वितः।
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव॥ 1-129-84(5762)
अह्नांशतेन संजज्ञे कन्या चैका शताधिका।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता॥ 1-129-85(5763)
`वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह।
तया समभवद्राजा धृतराष्ट्रो यदृच्छया॥' 1-129-86(5764)
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः।
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करमो नृप।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः॥ 1-129-87(5765)
महारथानां वीराणां कन्या चैका शताधिका।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान्॥ ॥ 1-129-88(5766)
इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः॥ 129 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-129-21 ऐन्द्रे ज्येष्ठानक्षत्रे। अष्टमे अभिजितेऽभिजिति त्रिंशन्मुहूर्तस्याह्नोऽष्टमे मुहूर्ते। दिवा शुक्लपक्षे। मध्यगते तुलायनगते। तिथौ पूर्णे पूर्णायां पञ्चम्याम्। अयं योगः प्रायेणास्विनशुक्लपञ्चम्याम्॥ 1-129-28 लोहाष्ठीला लोहपिण्डिका॥ 1-129-62 वज्रवद्वज्रिचोदितः वज्रिचोदितवज्रवदित्यर्थः॥ 1-129-64 विनादितं नादं। विनन्दं कुर्वाणम्॥ 1-129-69 रुराव च ननाद च व्यक्तमव्यक्तं च शब्दं खरसदृशमेवाकरोत्॥ 1-129-87 करण इव करणः क्षत्रियाद्वैश्यायां जातत्वान्न तु वैश्याच्छूद्रायाम्॥ एकोनत्रिंशदधिकशततमोऽध्यायः॥ 129 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|