(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.129. अध्यायः 129
Mahabharata - Adi Parva - Chapter Topics
धर्मात्कुन्त्यां युधिष्ठिरोत्पत्तिः॥ 1 ॥
कुन्त्याः पुत्रोत्पत्तिश्रवणेन दुःखितया गान्धार्यां घातितात्स्वोदरान्मांसपेशीजननम्॥ 2 ॥
मांसपेशीं एकोत्तरशतधा विभज्य पृथक्पृथक्कुण्डेषु निधाय रक्षणम्॥ 3 ॥
वने स्थितस्य पाण्डोः कुन्त्यां वायोर्भीमसेन्नोत्पत्तिः॥ 4 ॥
मातुरङ्कात्पतितेन भीमेन शैलशिलासंचूर्णनम्॥ 5 ॥
दुर्योधनोत्पत्तिः॥ 6 ॥
ततो मासेन धृतराष्ट्रस्य पुत्रशतोत्पत्तिः। दुःशलाजननं च॥ 7 ॥
Mahabharata - Adi Parva - Chapter Text

1-129-0(5678)
`कुन्त्युवाच। 1-129-0x(765)
अपत्यकाम एवं स्यान्ममापत्यं भवेदिति।
विप्रं वा गुणसंपन्नं सर्वभूतहिते रतम्॥ 1-129-1(5679)
अनुजानीहि भद्रं ते दैवतं हि पतिः स्त्रियः।
यं त्वं वक्ष्यसि धर्मज्ञ देवं ब्राह्मणमेव च॥ 1-129-2(5680)
यथोद्दिष्टं त्वया वीर तत्कर्तास्मि महाभुज।
देवात्पुत्रफलं सद्यो विप्रात्कालान्तरे भवेत्॥ 1-129-3(5681)
आवाहयामि कं देवं कदा वा भरतर्षभ।
त्वत्त आज्ञां प्रतीक्षन्तीं विद्ध्यस्मिन्कर्मणीप्सिते॥ 1-129-4(5682)
पाण्डुरुवाच। 1-129-5x(766)
धन्योऽञस्म्यनुगृहीतोऽस्मि त्वं नो धात्री कुलस्य हि।
नमो महर्षये तस्मै येन दत्तो वरस्तव॥ 1-129-5(5683)
न चाधर्मेण धर्मज्ञे शक्याः पालयितुं प्रजाः।
तस्मात्त्वं पुत्रलाभाय सन्तानाय ममैव च॥ 1-129-6(5684)
प्रवरं सर्वदेवानां धर्ममावाहयाबले। 1-129-7(5685)
वैशम्पायन उवाच।
पाण्डुना समनुज्ञाता भारतेन यशस्विना।
मतिं चक्रे महाराज धर्मस्यावाहने तदा॥' 1-129-7x(767)
पाण्डुरुवाच। 1-129-8x(768)
अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि।
धार्मिकश्च कुरूणां हि भविष्यति न संशयः॥ 1-129-8(5686)
दत्तस्य तस्य धर्मेण नाधर्मे रंस्यते मनः।
धर्मादिकं हि धर्मज्ञे धर्मान्तं धर्ममध्यमम्॥ 1-129-9(5687)
अपत्यमिष्टं लोकेषु यशःकीर्तिविवर्धनम्।
तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते॥ 1-129-10(5688)
आकाराचारसंपन्ना भजस्वाराधय स्वयम्॥ 1-129-11(5689)
वैशम्पायन उवाच। 1-129-12x(769)
सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना।
अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमथाकरोत्॥ 1-129-12(5690)
संवत्सरोषिते गर्भे गान्धार्या जनमेजय।
आजुबहाव ततो धर्मं कुन्ती गर्भार्थमच्युतम्॥ 1-129-13(5691)
सा बलिं त्वरिता देवी धर्मायोपजहार ह।
जजाप विधिवज्जप्यं दत्तं दुर्वाससा पुरा॥ 1-129-14(5692)
`जानन्ती धर्ममग्र्यं वै धर्मं वशमुपानयत्।
आहूतो नियमात्कुन्त्या सर्वभूतनमस्कृतः॥' 1-129-15(5693)
आजगाम ततो देवीं धर्मो मन्त्रबलात्ततः।
विमाने सूर्यसङ्काशे कुन्ती यत्र जपस्थिता॥ 1-129-16(5694)
`ददृशे भगवान्धर्मः सन्तानार्थाय पाण्डवे।'
विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम्।
सा तं विहस्यमानापि पुत्रं देह्यब्रवीदिदम्॥ 1-129-17(5695)
`तस्मिन्बहुमृगेऽरण्ये शतशृङ्गे नगोत्तमे।
पाण्डोरर्थे महाभागा कुन्ती धर्ममुपागमत्॥ 1-129-18(5696)
ऋतुकाले शुचिः स्नाता शुक्लवस्त्रा यशस्विनी।
शय्यां जग्राह सुश्रोणी सह धर्मेण सुव्रता॥' 1-129-19(5697)
धर्मेण सह संगम्य योगमूर्तिधरेण सा।
लेभे पुत्रं महाबाहुं सर्वप्राणभृतां वरम्॥ 1-129-20(5698)
ऐन्द्रे चन्द्रमसा युक्ते मुहूर्तेऽभिजितेऽष्टमे।
दिवा मध्यगते सूर्ये तिथौ पूर्णे हि पूजिते॥ 1-129-21(5699)
समृद्धयसशं कुन्ती सुषाव प्रवरं सुतम्।
जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी॥ 1-129-22(5700)
एष धर्मभृतां श्रेष्ठो भविष्यति नरोत्तमः।
विक्रान्तः सत्यवाक्चैव राजा पृथ्व्यां भविष्यति॥ 1-129-23(5701)
युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः।
भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः।
यशसा तेजसा चैव वृत्तेन च समन्वितः॥ 1-129-24(5702)
संवत्सरे द्वितीये तु गान्धार्या उदरं महत्।
न च प्राजायत तदा ततस्तां दुःखमाविशत्॥ 1-129-25(5703)
श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम्।
उदस्यात्मनः स्थैर्यमुपालभ्य च सौबली॥ 1-129-26(5704)
कौरवस्यापरिज्ञातं यत्नेन महता स्वयम्।
उदरं घातयामास गान्धारी शोकमूर्छिता॥ 1-129-27(5705)
ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता।
द्विवर्षसंभृता कुक्षौ तामुत्स्रष्टुं प्रचक्रमे॥ 1-129-28(5706)
अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत्।
तां स मांसमयीं पेशीं ददर्श जपतां वरः॥ 1-129-29(5707)
ततोऽवदत्सौबलेयीं किमिदं ते चिकीर्षितम्।
सा चात्मनो मतं सर्वं शशंस परमर्षये॥ 1-129-30(5708)
गान्धार्युवाच। 1-129-31x(770)
ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम्।
दुःखेन परमेणेदमुदरं घातितं मया॥ 1-129-31(5709)
शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा।
इयं च मे मांसपेशी जाता पुत्रशताय वै॥ 1-129-32(5710)
व्यास उवाच। 1-129-33x(771)
एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत्।
वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा॥ 1-129-33(5711)
घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम्।
सुगुप्तेषु च देशेषु रक्षा चैव विधीयताम्॥ 1-129-34(5712)
शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चय॥ 1-129-35(5713)
वैशम्पायन उवाच। 1-129-36x(772)
सा सिच्यमाना ह्यष्ठीला ह्यभवच्छतधा तदा।
अङ्गुष्ठपर्वभात्राणां गर्भाणां तत्क्षणं तथा॥ 1-129-36(5714)
एकाधिकशतं पूर्णं यथायोगं विशांपते।
ततः कुण्डशतं तत्र आनाय्य तु महानृषिः॥ 1-129-37(5715)
मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात्।
ततस्तांस्तेषु कुण्डेषु गर्भान्सर्वान्समादधत्॥ 1-129-38(5716)
स्वनुगुप्तेषु देशेषु रक्षां चैषां व्यधापयत्।
शशास चैव कृष्णो वै गर्भाणां रक्षणं तथा॥ 1-129-39(5717)
उवाच चैनां भगवान्कालेनैतावता पुनः।
स्फुटमानेषु कुण्डेषु जाताञ्जानीहि शोभने॥ 1-129-40(5718)
उद्धाटनीयान्येतानि कुण्डानीति च सौबलीम्।
इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च॥ 1-129-41(5719)
जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम्।
अह्नोत्तराः कुमारस्ते कुण्डेभ्यस्तु समुत्थिताः॥ 1-129-42(5720)
तेनैवैषां क्रमेणासीज्ज्योष्ठानुज्येष्ठता तदा।
जन्मतश्च प्रमाणेन ज्येष्ठः कुन्तीसुतोऽभवत्॥ 1-129-43(5721)
धार्मिकं च सुतं दृष्ट्वा पाण्डुः कुन्तीमथाऽब्रवीत्।
प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु॥ 1-129-44(5722)
ततः कुन्तीमभिक्रम्य शशासातीव भारत।
वायुमावाहयस्वेति स देवो बलवत्तरः॥ 1-129-45(5723)
अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः।
ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठश्च मारुतः॥ 1-129-46(5724)
मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम्।
आवाहय त्वं नियमात्पुत्रार्थं वरवर्णिनि॥ 1-129-47(5725)
स नो यं दास्यति सुतं स प्राणबलवान्नृषु।
भविष्यति वरारोहे बलज्येष्ठा हि भूमिपाः॥ 1-129-48(5726)
वैशम्पायन उवाच। 1-129-49x(773)
तथोक्तवति सा काले वायुमेवाजुहाव ह।
द्वितीयेनोपहारेण तेनोक्तविधिना पुनः॥ 1-129-49(5727)
तैरेव नियमैः स्थित्वा मन्त्रग्राममुदैरयत्।
आजगाम ततो वायुः किं करोमीति चाब्रवीत्॥ 1-129-50(5728)
लज्जान्विता ततः कुन्ती पुत्रमैच्छन्महाबलम्।
तथास्त्विति च तां वायुः समालभ्य दिवं गतः॥ 1-129-51(5729)
तस्यां जज्ञे महावीर्यो भीमो भीमपराक्रमः।
तमप्यतिबलं जातं वागुवाचाशरीरिणी॥ 1-129-52(5730)
सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत।
जातमात्रे कुमारे तु सर्वलोकस्य पार्थिवाः॥ 1-129-53(5731)
मूत्रं प्रसुस्रुवुः सर्वे व्यथां चापि प्रपेदिरे।
वाहनानि व्यशीर्यन्त व्यमुञ्चन्नश्रुबिन्दवः॥ 1-129-54(5732)
यथाऽनिलः समुद्भूतः समर्थः कम्पने भुवः।
तथा ह्युपचिताङ्गो वै भीमो भीमपराक्रमः॥ 1-129-55(5733)
इदं चाद्भुतमत्रासीज्जातमात्रे वृकोदरे।
यदऱ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत्॥ 1-129-56(5734)
कुन्ती तु सह पुत्रेण याता सुरुचिरं सरः।
स्नात्वा च सुतमादाय दशमेऽहनि यादवी॥ 1-129-57(5735)
दैवतान्यर्चयिष्यन्ती निर्जगामाश्रमात्पृथा।
शैलाभ्याशेन गच्छन्त्यास्तदा भरतसत्तम॥ 1-129-58(5736)
निश्चक्राम महाव्याघ्रो जिघांसुर्गिरिगह्वरात्।
तमापतन्तं शार्दूलं विकृष्य धनुरुत्तमम्॥ 1-129-59(5737)
निर्बिभेद शरैः पाण्डुस्त्रिभिस्तिरदशविक्रमः।
नादेन महता तां तु पूरयन्तं गिरेर्गुहाम्॥ 1-129-60(5738)
दृष्ट्वा शैलमुपारोढुमैच्छत्कुन्ती भयात्तदा।
त्रासात्तस्याः सुतस्त्वङ्कात्पपात भरतर्षभ॥ 1-129-61(5739)
पर्वतस्योपरिस्थायामधस्तादपतच्छिशुः।
स शिलां चूर्णयामास वज्रवद्वज्रिचोदितः॥ 1-129-62(5740)
पुत्रस्नेहात्ततः पाण्डुरभ्यधावद्गिरेस्तटम्।
पतता तेन शतधा शिला गात्रैर्विचूर्णिता॥ 1-129-63(5741)
शिलां च चूर्णितां दृष्ट्वा परं विस्मयमागमत्।
स तु जन्मनि भीमस्य विनदन्तं विनादितम्॥ 1-129-64(5742)
ददर्श गिरिशृङ्गस्थं व्याघ्रं व्याघ्रपराक्रमः।
दारसंरक्षणार्थाय पुत्रसंरक्षणाय च॥ 1-129-65(5743)
सदा बाणधनुष्पाणिरभवत्कुरुनन्दनः।
मघे चन्द्रमसा युक्ते सिंहे चाभ्युदिते गुरौ॥ 1-129-66(5744)
दिवा मध्यगते सूर्ये तिथौ पुण्ये त्रयोदशे।
पित्र्ये मुहूर्ते सा कुन्ती सुषुवे भीममच्युतम्॥ 1-129-67(5745)
यस्मिन्नहनि भमस्तु जज्ञे भीमपराक्रमः।
तामेव रात्रिं पूर्वां तु जज्ञे दुर्योधनो नृपः॥ 1-129-68(5746)
स जातमात्र एवाथ धृतराष्ट्रसुतो नृप।
रासभारावसदृशं रुराव च ननाद च॥ 1-129-69(5747)
तं खराः प्रत्यभाषन्त गृध्रगोमायुवायसाः।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः॥ 1-129-70(5748)
वाताश्च प्रववुश्चापि दिग्दाहश्चाभवत्तदा।
ततस्तु भीतवद्राजा धृतराष्ट्रोऽब्रवीदिदम्॥ 1-129-71(5749)
समानीय बहून्विप्रान्भीष्मं विदुरमेव च।
अन्यांश्च सुहृदो राजन्कुरून्सर्वांस्तथैव च॥ 1-129-72(5750)
युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः।
प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्तिनः॥ 1-129-73(5751)
अयं त्वनन्तरस्तस्मादपि राजा भविष्यति।
एतद्विब्रूत मे तथ्यं यदत्र भविता ध्रुवम्॥ 1-129-74(5752)
`अस्मिञ्जाते निमित्तानि शंसन्ती हाशिवं महत्।
अतो ब्रवीमि विदुर द्रुतं मां भयमाविशत्॥' 1-129-75(5753)
वाक्यस्यैतस्य निधेन दिक्षु सर्वासु भारत।
क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवनिस्वनाः॥ 1-129-76(5754)
लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः।
तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः॥ 1-129-77(5755)
यथेमानि निमित्तानि घोराणि मनुजाधिप।
उत्थितानि सुते जाते ज्येष्ठे ते पुरुषर्षभ॥ 1-129-78(5756)
व्यक्तं कुलान्तकरणो भवितैष सुतस्तव।
तस्य शान्तिः परित्यागे गुप्तावपनयो महान्॥ 1-129-79(5757)
`एष दुर्योधनो राजा मधुपिङ्गललोचनः।
न केवलं कुलस्यान्तं क्षत्रियान्तं करिष्यति॥' 1-129-80(5758)
शतमेकोनमप्यस्तु पुत्राणां ते महीपते।
त्यजैनमेकं शान्तिं चेत्कुलस्येच्छसि भारत॥ 1-129-81(5759)
एकेन कुरु वै क्षेमं कुलस्य जगतस्तथा।
त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्॥ 1-129-82(5760)
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्।
स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः॥ 1-129-83(5761)
न चकार तथा राजा पुत्रस्नेहसमन्वितः।
ततः पुत्रशतं पूर्ण धृतराष्ट्रस्य पार्थिव॥ 1-129-84(5762)
अह्नांशतेन संजज्ञे कन्या चैका शताधिका।
गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता॥ 1-129-85(5763)
`वैश्या सा त्वम्बिकापुत्रं कन्या परिचचार ह।
तया समभवद्राजा धृतराष्ट्रो यदृच्छया॥' 1-129-86(5764)
तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः।
जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करमो नृप।
एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः॥ 1-129-87(5765)
महारथानां वीराणां कन्या चैका शताधिका।
युयुत्सुश्च महातेजा वैश्यापुत्रः प्रतापवान्॥ ॥ 1-129-88(5766)

इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः॥ 129 ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-129-21 ऐन्द्रे ज्येष्ठानक्षत्रे। अष्टमे अभिजितेऽभिजिति त्रिंशन्मुहूर्तस्याह्नोऽष्टमे मुहूर्ते। दिवा शुक्लपक्षे। मध्यगते तुलायनगते। तिथौ पूर्णे पूर्णायां पञ्चम्याम्। अयं योगः प्रायेणास्विनशुक्लपञ्चम्याम्॥ 1-129-28 लोहाष्ठीला लोहपिण्डिका॥ 1-129-62 वज्रवद्वज्रिचोदितः वज्रिचोदितवज्रवदित्यर्थः॥ 1-129-64 विनादितं नादं। विनन्दं कुर्वाणम्॥ 1-129-69 रुराव च ननाद च व्यक्तमव्यक्तं च शब्दं खरसदृशमेवाकरोत्॥ 1-129-87 करण इव करणः क्षत्रियाद्वैश्यायां जातत्वान्न तु वैश्याच्छूद्रायाम्॥ एकोनत्रिंशदधिकशततमोऽध्यायः॥ 129 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.